ॐ नमः कल्याणदे देवि नमः शंकरवल्लभे ।
नमो मुक्तिप्रदे
देवि अन्नपूर्ण नमोऽस्तु ते ॥
ॐ नमो
मायाग्रहीतांगि नमः शंकरवल्लभे ।
माहेश्वरि
नमस्तुभ्यमन्नपूर्णे नमोऽस्तु ते ॥
अन्नपूर्णे
हव्यवाहपत्नीरूपे हरप्रिये ।
कलाकाष्ठास्वरूपे
च अन्नपूर्णे नमोऽस्तु ते ॥
उद्यद्भानु
सहस्राभे नयनत्रयभूषिते ।
चन्द्रचूडे
महादेवि अन्नपूर्णे नमोऽस्तु ते ॥
विचित्रवसने
देवि त्वन्नदानरतेऽनघे ।
शिवनृत्यकृतामोदे
अन्नपूर्ण नमोऽस्तु ते ॥
षट्कोणपद्ममध्यस्थे
षडंगयुवतीमये ।
बाह्यादिमातृरूपे
च अन्नपूर्णे नमोऽस्तु ते ॥
देवि
चन्द्रकलापीठे सर्वसाम्राज्यदायिनि।
सर्वानंदकरे
देवि अन्नपूर्ण नमोऽस्तु ते ॥
साधकाभीष्टदे
देवि भवदुःखविनाशिनि ।
कुचभारनते देवि
अन्नपूर्णे नमोऽस्तु ते ।।
इन्द्राद्यर्चितपादाब्जे
रुद्रादिरूपधारिणि ।
सर्वसंपत्प्रदे
देवि अन्नपूर्णे नमोऽस्तु ते ॥
पूजाकाले
पठेद्यस्तु स्तोत्रमेतत्समाहितः ।
तस्य गेहे
स्थिरा लक्ष्मीर्जायते नात्र संशयः ॥
प्रात:काल
पठेद्यस्तु मंत्रजापपुरःसरम्।
तद्गृहेऽन्नसमृद्धिः
स्याद्वर्द्धमाना दिने दिने ॥
यस्मै कस्मै न
दातव्यं न प्रकाश्यं कदाचन ।
प्रकाशात्सिद्धिहानिस्तद्गोपयेद्यत्नतः
सुधीः ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें