मंगलवार, 24 दिसंबर 2024

श्री नवग्रहस्तोत्रम्

  


जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् ।

तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥ 1 ॥

दधिशङ्खतुषाराभं क्षीरोदार्णवसम्भवम् ।

नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ॥ 2 ॥

धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम् ।

कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम् ॥ 3 ॥

प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् ।

सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥ 4 ॥

देवानां च ऋषीणां च गुरुं काञ्चनसंनिभम् ।

बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥ 5 ॥

हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् ।

सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥ 6 ॥

नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम् ।

छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम्॥ 7 ॥

अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम्।

सिंहिकागर्भसम्भूतं तं राहुं प्रणमाम्यहम् ॥ 8 ॥

पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् ।

रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्॥ 9 ॥

इति व्यासमुखोद्गीतं यः पठेत् सुसमाहितः ।

दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति ॥ 10 ॥

नरनारीनृपाणां  भवेद्दुःस्वप्ननाशनम्।

ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम् ॥ 11 ॥

॥ महर्षिव्यासविरचितं नवग्रहस्तोत्रं सम्पूर्णम् ॥

कोई टिप्पणी नहीं: