सोमवार, 5 अक्टूबर 2026

पितृदोष मे करें पितृ स्त्रोत्र का पाठ


पितृ पक्ष की अमावस को पितृ स्तोत्र का पाठ करने से बहुत लाभ मिलता है!

‎

‎अर्चितानामूर्तानां पितॄणं दीप्ततेजसाम्।

‎नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम्॥

‎

‎इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा। 

सप्तर्षीणां तथान्येषां तां नमस्यामि कामदाम्॥

‎

‎मनवादीनां च नेतारः सूर्याचन्द्रमसोस्तथा।

‎तान् नमस्याम्यहं सर्वान् पितृनप्सूदधावपि ॥

‎

‎नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा। 

द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः ॥

‎

‎देवर्षीणां जनितॄंश्च सर्वलोकनमस्कृतान्।

‎अक्षय्यस्य सदा दातॄन् नमस्येऽहं कृताञ्जलिः ॥

‎

‎प्रजापतेः कश्यपाय सोमाय वरुणाय च।

‎योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः ॥

‎

‎नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु। 

स्वयम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे ॥

‎

‎सोमाधारान् पितृगणान् योगमूर्तिधरांस्तथा।

‎नमस्यामि तथा सोमं पितरं जगतामहम् ॥

‎

‎अग्निरूपांस्तथैवान्यान् नमस्यामि पितॄनहम्।

अग्नीषोममयं विश्वं यत एतदशेषतः ॥

‎

‎ये तु तेजसि ये चैते सोमसूर्याग्निमूर्तयः।

‎जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिणः ॥

‎

‎तेभ्योऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः।

‎नमो नमो नमस्ते मे प्रसीदन्तु स्वधाभुजः ॥

‎

‎

‎

कोई टिप्पणी नहीं: