जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् ।
तमोऽरिं
सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥ 1 ॥
दधिशङ्खतुषाराभं क्षीरोदार्णवसम्भवम्
।
नमामि शशिनं
सोमं शम्भोर्मुकुटभूषणम् ॥ 2 ॥
धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम्
।
कुमारं
शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम् ॥ 3 ॥
प्रियङ्गुकलिकाश्यामं
रूपेणाप्रतिमं बुधम् ।
सौम्यं
सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥ 4 ॥
देवानां च
ऋषीणां च गुरुं काञ्चनसंनिभम् ।
बुद्धिभूतं
त्रिलोकेशं तं नमामि बृहस्पतिम् ॥ 5 ॥
हिमकुन्दमृणालाभं
दैत्यानां परमं गुरुम् ।
सर्वशास्त्रप्रवक्तारं
भार्गवं प्रणमाम्यहम् ॥ 6 ॥
नीलाञ्जनसमाभासं
रविपुत्रं यमाग्रजम् ।
छायामार्तण्डसम्भूतं
तं नमामि शनैश्चरम्॥ 7 ॥
अर्धकायं
महावीर्यं चन्द्रादित्यविमर्दनम्।
सिंहिकागर्भसम्भूतं
तं राहुं प्रणमाम्यहम् ॥ 8 ॥
पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् ।
रौद्रं
रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्॥ 9 ॥
इति
व्यासमुखोद्गीतं यः पठेत् सुसमाहितः ।
दिवा वा यदि वा
रात्रौ विघ्नशान्तिर्भविष्यति ॥ 10 ॥
नरनारीनृपाणां च भवेद्दुःस्वप्ननाशनम्।
ऐश्वर्यमतुलं
तेषामारोग्यं पुष्टिवर्धनम् ॥ 11 ॥
॥
महर्षिव्यासविरचितं नवग्रहस्तोत्रं सम्पूर्णम् ॥